(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.38. अध्यायः 038
Mahabharata - Virata Parva - Chapter Topics
उत्तरे समुचितसारथेरभावेन खिद्यमाने अर्जुनेन द्रौपदींप्रति उत्तराय बृहन्नलायाः सारथ्यकौशलनिवेदनचोदना ॥ 1 ॥ भ्रातॄचोदितया उत्तरया बृहन्नलांप्रति उत्तररथसारध्यकरणप्रार्थना ॥ 2 ॥ उत्तरेण सारथीभूतेनार्जुनेन सह कुरून्प्रति रणायाभियानम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-38-0x(3145)(29935)
महाजनसमक्षं तु स्त्रीणां मध्ये विशेषतः ।
गवाध्यक्षेण संप्रोक्तो विराटतनयस्तदा ॥ 1 ॥ 4-38-1(29936)
स्त्रीमध्य उक्तस्तेनासौ वाक्यं तेजःप्रवर्धनम्।
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥ 2 ॥ 4-38-2(29937)
उत्तर उवाच। 4-38-3x(3146)
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम्।
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥ 3 ॥ 4-38-3(29938)
तमेव नाधिगच्छामि यो मे यन्ता समो भवेत् ।
पश्यध्वं सारथिं शीघ्रं मम युक्तं प्रयास्यतः ॥ 4 ॥ 4-38-4(29939)
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः ।
यत्तदासीन्महायुद्धं तत्र मे सारथिर्हतः ॥ 5 ॥ 4-38-5(29940)
यद्यहं त्वधिगच्छेयं यो मे यन्ता भवेद्युधि ।
त्वरावानद्य यास्यामि समुच्छ्रितमहाध्वजः ॥ 6 ॥ 4-38-6(29941)
विगाह्य तत्परानीकं गजवाजिरथाकुलम् ।
शस्त्रप्रतापान्निर्वीर्यान्कुरूञ्जित्वाऽऽनये पशून् ॥ 7 ॥ 4-38-7(29942)
दुर्योधनं विकर्णं च कर्णं वैकर्तनं कृपम्।
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ॥ 8 ॥ 4-38-8(29943)
विद्रावयित्वा संग्रामे दानवान्मघवानिव ।
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥ 9 ॥ 4-38-9(29944)
शून्यमाज्ञाय कुरवः प्रयान्त्यादाय गोधनम् ।
किं न शक्यं च तैः कर्तुं यदहं तत्र नाभवम् ॥ 10 ॥ 4-38-10(29945)
पश्ययुरद्य मे वीर्यं कुरवस्ते समागताः ।
किंनु पार्थोऽर्जुनः साक्षादिति मंस्यन्ति मां परे ॥ 11 ॥ 4-38-11(29946)
वैशंपयान उवाच। 4-38-12x(3147)
तस्य तद्वचनं श्रुत्वा स्त्रीषु चात्मप्रशंसनम् ।
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥ 12 ॥ 4-38-12(29947)
श्रुत्वा तदर्जुनो वाक्यमुत्तरेण प्रभाषितम्।
अतीतसमये काले प्रियां भार्यामभाषत ॥ 13 ॥ 4-38-13(29948)
द्रुपदस्य सुतां राज्ञः पाञ्चालीं रूपसंमताम् ।
सत्यार्जवगुणोपेतां भर्तुः प्रियहितैषिणीम् ।
उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः ॥ 14 ॥ 4-38-14(29949)
उत्तरां ब्रूहि पाञ्चालि गत्वा क्षिप्रं शुचिस्मिते ॥ 15 ॥ 4-38-15(29950)
इयं किल पुरा युद्धे खाण्डवे सव्यसाचिनः ।
सारथिः पाण्डुपुत्रस्य पार्थस्य तु बृहन्नला।
महाञ्जयो भवेद्युद्धे सा चेद्यन्ता बृहन्नला ॥ 16 ॥ 4-38-16(29951)
वैशम्पायन उवाच। 4-38-17x(3148)
सा चोदिता तदा ह्येन ह्यर्जुनेन शुचिस्मिता।
पाञ्चाली च तदाऽऽगम्य उत्तराया निवेशनम् ॥ 17 ॥ 4-38-17(29952)
ज्ञात्वा तु समयान्मुक्तं चन्द्रं राहुमुखादिव ।
युधिष्ठिरं धर्मपरं सत्यार्जवपथे स्थितम् ॥ 18 ॥ 4-38-18(29953)
अमर्षयन्ती तद्दुःखं कृष्णा कमललोचना।
उत्तरामाह वचनं सखीमध्ये विलासिनीम् ॥ 19 ॥ 4-38-19(29954)
योऽयं युवा वारणयूथपोपमो बृहन्नलाऽस्मीति जनोऽभ्यभाषत।
पुराऽपि पार्थस्य स सारथिस्तदा धनुर्धराणां प्रवरस्य मन्ये ॥ 20 ॥ 4-38-20(29955)
एतेन वा सारथिना तदाऽर्जुनः सदेवगन्धर्वमहासुरोरगान् ।
सर्वाणि भूतान्यजयस्तस वीर्यवानतर्पयच्चापि हिरण्यरेतसम् ॥ 21 ॥ 4-38-21(29956)
यदस्य संस्थामपि तस्य संयुगे जानामि वीर्यं परवीरमध्यगम् ।
संगृह्य रश्मीनपि चास्य वीर्यवानादाय चापं प्रययौ रथे स्थितः ॥ 22 ॥ 4-38-22(29957)
न सर्वभूतानि न देवदानवा न चापि सर्वे कुरवः समागताः।
धनं हरेयुस्तव जातु धन्विनो बृहन्नला तूत्तरसारथिर्यदि ॥ 23 ॥ 4-38-23(29958)
धनुष्यनवमश्चासीत्तस्य शिष्यो महात्मनः ।
सुदृष्टपूर्वो हि मया चरन्त्या पाण्डवालये ॥ 24 ॥ 4-38-24(29959)
स चानेन सहायेन खाण्डवं चादहत्पुरा ।
अर्जुनस्य तदाऽनेन संगृहीता हयोत्तमाः ॥ 25 ॥ 4-38-25(29960)
तेन सारथिना पार्थः सर्वभूतानि सर्वशः।
अजयत्खाण्डवप्रस्थे न हि यन्ताऽस्ति तादृशः ॥ 26 ॥ 4-38-26(29961)
वैशम्पायन उवाच। 4-28-27x(3149)
ततः सैरन्ध्रिसहिता उत्तरा भ्रातुरब्रवीत्।
अभ्यर्थयैनां सारथ्ये वीर शीघ्रं बृहन्नलाम् ॥ 27 ॥ 4-38-27(29962)
शिक्षितैषा हि सारथ्ये नर्तने गीतवादिते ।
सैरन्ध्य्राह महाप्राज्ञा स्तुवन्ती वै बृहन्नलाम् ॥ 28 ॥ 4-38-28(29963)
उत्तर उवाच। 4-38-29x(3150)
सैरन्ध्रि जानासि मम व्रतं हि क्लीबेन पुंसा न हि संवदाम्यहम्।
सोहं न शक्ष्यामि बृहन्नलां शुभे वक्तुं स्वयं यच्छ हयान्ममेति ॥ 29 ॥ 4-38-29(29964)
सैरन्ध्र्युवाच। 4-38-30x(3151)
भयकाले तु संप्राप्ते न व्रतं नाव्रतं पुनः।
यथा दुःखं प्रतरति कर्तुं युक्तं चरेद्बुधः ।
इति धर्मविदः प्राहुस्तस्माद्वाच्या बृहन्नला ॥ 30 ॥ 4-38-30(29965)
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी।
अस्यास्तु वचनं वीर करिष्यति न संशयः ॥ 31 ॥ 4-38-31(29966)
यदि ते सारथिः सा स्यात्कुरून्सर्वान्न संशयः।
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥ 32 ॥ 4-38-32(29967)
वैशम्पायन उवाच। 4-38-33x(3152)
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत।
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम् ॥ 33 ॥ 4-38-33(29968)
सा प्राद्रवत्काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी ।
भ्रातुर्नियोगं तु निशम्य सुभ्रुः शुभानना हाटकवज्रभूषिता ॥ 34 ॥ 4-38-34(29969)
सा वज्रमुक्तामणिहेमकुण्डला मृदुक्रमा भ्रातृनियोगचोदिता।
प्रदक्षिणावर्ततनुः शिखण्डिनी पद्मानना पद्मदलायताक्षी ॥ 35 ॥ 4-38-35(29970)
तन्वी समाङ्गी मृदुमन्द्रलोचना मात्स्यस्य राज्ञो दुहिता विलासिनी ।
सा नर्तनागारमरालपक्ष्मा शतह्रदा मेघमिवान्वपद्यत ॥ 36 ॥ 4-38-36(29971)
सा नागनासोपमसंहितोरूरनिन्दिता वेदिविलग्नमध्या।
आसाद्य तस्थौ वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम् ॥ 37 ॥ 4-38-37(29972)
तामागतामायतताम्रलोचनामवेक्ष्य पार्थः समयेऽभ्यभाषत ॥ 38 ॥ 4-38-38(29973)
किमागता काञ्चनमाल्यधारिणी सुगात्रि किंचित्त्वरिताऽसि सुभ्रु ।
किं ते मुखं सुन्दरि न प्रसन्नमाचक्ष्व शीघ्रं मम चारुहासिनि ॥ 39 ॥ 4-38-39(29974)
वैशम्पायन उवाच। 4-38-40x(3153)
सा वज्रवैडूर्यविकारकुण्डला विनिद्रपद्मोत्पलपन्नगन्धिनी ।
प्रसन्नताराधिपसंनिभानना पार्थे कुमारी वचनं बभाषे ॥ 40 ॥ 4-38-40(29975)
उत्तरोवाच। 4-38-41x(3154)
हरन्ति वित्तं कुरवाः पितुर्मे शतं सहस्राणि गवां बृहन्नले।
सा भ्रातुरश्वान्मम संयमस्व पुरा परे दूरतरं हरन्ति गाः ॥ 41 ॥ 4-38-41(29976)
सैरन्ध्रिराख्याति बृहन्नले त्वां सुशिक्षिता संग्रहणे रथाश्वयोः ।
अहं मरिष्यामि न मेऽत्र संशयो मया वृता तत्र न चेद्गमिष्यसि ॥ 42 ॥ 4-38-42(29977)
वैशम्पायन उवाच। 4-38-43x(3155)
तथा नियुक्तो नरदेवकन्यया नरोत्तमः प्रीतमना धनञ्जयः।
उवाच पार्थः शुभमन्द्रया गिरा शुभाननां शुक्लदतीं शुचिस्मिताम् ॥ 43 ॥ 4-38-43(29978)
गच्छामि यत्रेच्छसि चारुहासिनि हुताशनं प्रज्वलितं विशामि वा।
इच्छामि तेऽहं वरगात्रि जीवितं करोमि किं ते प्रियमद्य सुन्दरि।
न मत्कृते द्रक्ष्यसि तत्पुरं प्रिये वैवस्वतं प्रेतपतेर्महाभयम् ॥ 44 ॥ 4-38-44(29979)
वैशम्पायन उवाच । 4-38-45x(3156)
एतावदुक्त्वा कुरुवीरपुङ्गवो विलासिनीं शुक्लदतीं शुचिस्मिताम्।
बृहन्नलारूपविभूषिताननो विराटपुत्रस्य समीपमाव्रजत् ॥ 45 ॥ 4-38-45(29980)
तथा व्रजन्तं वरभूषणैर्वृतं महाप्रभं वारणयूथपोपमम्।
गजेन्द्रबाहुं कमलायतेक्षणं कवाटवक्षस्थलमुन्नतांसम् ॥ 46 ॥ 4-38-46(29981)
तमागतं पार्थममित्रकर्शनं महाबलं नागमिव प्रमाथिनम्।
वैराटिरामन्त्र्य ततो बृहन्नलां गवां निनीषन्पदमुत्तरोऽब्रवीत् ॥ 47 ॥ 4-38-47(29982)
तमाव्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम्।
अन्वगच्छद्विशालाक्षी गजं गजवधूरिव ॥ 48 ॥ 4-38-48(29983)
दूरादेव तु संप्रेक्ष्य राजपुत्रोऽभ्यभाषत ।
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ॥ 49 ॥ 4-38-49(29984)
पृथिवीं चाजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः।
सैरन्ध्री त्वां ममाचष्ट सा हि जानाति पाण्डवान् ॥ 50 ॥ 4-38-50(29985)
देवेन्द्रसारथिर्वीरो मातलिः ख्यातविक्रमः ।
सुमहो जामदग्नेश्च विष्णोर्यन्ता च दारुकः ॥ 51 ॥ 4-38-51(29986)
सुमन्त्रो वा दाशरथेः सूर्ययन्ता तथाऽरुणः।
सर्वे सारथयः ख्याता न बृहन्नलया समाः ॥ 52 ॥ 4-38-52(29987)
इत्युक्तोऽहं च सैरन्ध्र्या तेन त्वामाह्वयामि वै ।
आहुता त्वं मया सार्धं योद्धुं याहि बृहन्नले ॥ 53 ॥ 4-38-53(29988)
दूराद्दूरतरं गावो भवन्ति कुरुभिर्हृताः।
तथोक्ता प्रत्युवाचेदं राजपुत्रं बृहन्नला ॥ 54 ॥ 4-38-54(29989)
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि ।
नृत्तं वा यदि वा गीतं वादित्रं वा पृथग्विधम् ।
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मम ॥ 55 ॥ 4-38-55(29990)
उत्तर उवाच। 4-38-56x(3157)
त्वं नर्तको वा यदि वाऽपि गायकः क्षिप्रं तनुत्रं परिधत्स्व भानुमत्।
अभीक्ष्णमाहुस्तव कर्म पौरुषं स्त्रियः प्रशंसन्ति ममाद्य चान्तिके ॥ 56 ॥ 4-38-56(29991)
वैशम्पायन उवाच। 4-38-57x(3158)
इत्येवमुक्त्वा नृपसूनुसत्तमस्तदा स्मयित्वाऽर्जुनमभ्यनन्दयत्।
अथोत्तरः पारशवं शताक्षिमत्सुवर्णचित्रं परिगृह्य भानुमत् ॥ 57 ॥ 4-38-57(29992)
बृहन्नलायै प्रददौ स्वयं तदा विराटपुत्रः परवीरघातिने।
तदाज्ञया मात्स्यसुतस्य वीर्यवानकर्तुकामेव समाददे तदा ॥ 58 ॥ 4-38-58(29993)
बृहन्नलोवाच। 4-38-59x(3159)
यद्यस्ति च रणे शौर्यं शक्यः स्याद्द्विषतां वधः।
अहं त्वामभिगच्छामि यत्र त्वं यासि तत्र भो ॥ 59 ॥ 4-38-59(29994)
वैशम्पायन उवाच। 4-38-60x(3160)
ततः स नर्मसंयुक्तमकरोत्पाण्डवो बहु।
उत्तरायाः प्रमुखतः सर्वं जानन्नरिन्दमः ॥ 60 ॥ 4-38-60(29995)
तमाददानं प्रमदा जहासिरे ह्यधोमुखं वीरवरोऽभ्यधारयत्।
ततस्तिरश्चीनकृतं सपत्नहा ह्यधोमुखं कवचमथाभ्यकर्षत ॥ 61 ॥ 4-38-61(29996)
सम्यक्प्रजानन्नपि सत्यविक्रमो ह्यज्ञातवत्सर्वकुरुप्रवीरः।
ऊर्ध्वं क्षिपन्वीरतरोऽभ्यधारयत्पुनश्च यन्ता कवचं धनञ्जयः ॥ 62 ॥ 4-38-62(29997)
एवंप्रकाराणि बहूनि कुर्वति तस्मिन्कुमार्यः प्रमदा जहासिरे ।
तथापि कुर्वन्तममित्रकर्शनं नैवोत्तरः पर्यभवद्धनञ्जयम् ॥ 63 ॥ 4-38-63(29998)
तं राजपुत्रः समनाहयत्स्वयं जाम्बूनदान्तेन शुभेन वर्मणा।
कृशानुतप्तप्रतिमेन भास्वता जाज्वल्यमानेन सहस्ररश्मिना ॥ 64 ॥ 4-38-64(29999)
अथास्य शीघ्रं प्रसमीक्ष्य भोजयद्रथे हयान्काञ्चनजालसंवृतान्।
सुवर्णजालान्तरयोक्तभूषणं सिंहं च सौवर्णमुपाश्रयद्रथे ॥ 65 ॥ 4-38-65(30000)
धनूंषि च विचित्राणि बाणांश्च रुचिरान्बहून्।
आयुधानि च वै तत्र रथोपस्थे च स न्यसत् ॥ 66 ॥ 4-38-66(30001)
आरुह्य प्रययौ वीरः सबृहन्नलसारथिः।
अथोत्तरा च कन्याश्च स ख्यश्चैवाब्रुवंस्तदा ॥ 67 ॥ 4-38-67(30002)
बृहन्नले आनयेथा वासांसि रुचिराणि नः।
पाञ्चालिकार्थं सूक्ष्माणि रत्नानि विविधानि च ।
विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् ॥ 68 ॥ 4-38-68(30003)
अथ ता ब्रुवतीः कन्याः सहिताः कुरुनन्दनः।
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिस्वनः ॥ 69 ॥ 4-38-69(30004)
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् ।
अथाहरिष्ये वासांसि सूक्ष्माण्याभरणानि च ॥ 70 ॥ 4-38-70(30005)
वैशम्पायन उवाच। 4-38-71x(3161)
अथोत्तरो वर्म महाप्रभावं सुवर्णवैडूर्यपरिष्कृतं शुभम्।
आमुच्य वीरः प्रययौ रथोत्तमं धनञ्जयं सारथिनं प्रगृह्य ॥ 71 ॥ 4-38-71(30006)
तमुत्तरं प्रेक्ष्य रथोत्तमे स्थितं बृहन्नलां चैव महाजनस्तदा।
स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं मङ्गलिनोऽभ्यपूजयन् ॥ 72 ॥ 4-38-72(30007)
यदर्जुनस्यर्षभतुल्यगामिनः पुराऽभवत्खाण्डवदाहमङ्गलम् ।
कुरून्समासाद्य रणे बृहन्नले सहोत्तरेणास्तु तवाद्य मङ्गलम् ॥ 73 ॥ ॥ 4-38-73(30008)

इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-38-35 शिखण्डिनी मयूरपिच्छालंकारवती ॥ 35 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.